|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.267. अध्यायः 267
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति जाजलिचरित्रकथनारम्भः॥ 1॥ धार्मिकंमन्येन जाजलिना खेचरकृतावज्ञया तुलाधारसमीपगमनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-267-0x(6285)(75917)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह॥ 12-267-1(75918)
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः।
सागरोद्देशमागम्य तपस्तेपे महातपाः॥ 12-267-2(75919)
नियतो नियताहारश्चीराजिनजटाधरः।
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः॥ 12-267-3(75920)
स कदाचिन्महातेजा जलवासो महीपते।
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः॥ 12-267-4(75921)
स चिन्तयामास मुनिर्जलमध्ये कदाचन।
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्॥ 12-267-5(75922)
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे।
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै॥ 12-267-6(75923)
स दृश्यमानो रक्षोभिर्जलमध्ये च भारत।
आस्फोटयत्तदाऽऽकाशे धर्मः प्राप्तो मयेति वै॥ 12-267-7(75924)
अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि।
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः।
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम॥ 12-267-8(75925)
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः।
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम्॥ 12-267-9(75926)
इति ब्रुवाणं तमृषिं रक्षांस्युत्थाय सागरात्।
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम्॥ 12-267-10(75927)
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा।
वाराणस्यां तुलाधारं समासाद्याब्रवीदिदम्॥ 12-267-11(75928)
युधिष्ठिर उवाच। 12-267-12x(6286)
किं कृतं दुष्करं तात कर्म जाजलिना पुरा।
येन सिद्धिं परां प्राप्तस्तन्मे व्याख्यातुमर्हसि॥ 12-267-12(75929)
भीष्म उवाच। 12-267-13x(6287)
अतीव तपसा युक्तो घोरेण स बभूव ह।
नद्युपस्पर्शनपरः सायंप्रातर्महातपाः॥ 12-267-13(75930)
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः।
वानप्रस्थ विधानज्ञो जाजलिर्ज्वलितः श्रिया॥ 12-267-14(75931)
वने तपस्यतिष्ठत्स न चाधर्ममवैक्षत।
वर्षास्वाकाशशायी च हेमन्ते जलसंश्रयः॥ 12-267-15(75932)
वातातपसहो ग्रीष्मे न चाधर्ममविन्दत।
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम्॥ 12-267-16(75933)
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः।
अन्तरिक्षाज्जलं मूर्ध्नां प्रत्यगृह्णान्मुहुर्मुहुः॥ 12-267-17(75934)
आप्लुतस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो।
अरण्यगमनान्नित्यं मलिनोऽमलसंयुतः॥ 12-267-18(75935)
स कदाचिन्निराहारो वायुभक्षो महातपाः।
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्॥ 12-267-19(75936)
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत।
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः॥ 12-267-20(75937)
स तौ दयावान्ब्रह्मर्षिरुपप्रैक्षत दंपती।
कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः॥ 12-267-21(75938)
यदा न स चलत्येव स्थाणुभूतो महातपाः।
ततस्तौ सुखविश्वस्तौ सुखं तत्रोषतुस्तदा॥ 12-267-22(75939)
अतीतास्वथ वर्षासु शरत्काल उपस्थिते।
प्राजापत्येन विधिना विश्वासात्काममोहितौ॥ 12-267-23(75940)
तत्रोत्पादयतां राजञ्शिरस्यण्डानि खेचरौ।
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः॥ 12-267-24(75941)
बुद्ध्वा च स महातेजा न चचाल च जाजलिः।
धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत्॥ 12-267-25(75942)
अहन्यहनि चागत्य ततस्तौ तस्य मूर्धनि।
आश्वासितौ निवसतः संप्रहृष्टौ तदा विभौ॥ 12-267-26(75943)
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः।
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः॥ 12-267-27(75944)
स रक्षमाणस्त्वण़्डानि कुलिङ्गानां धृतव्रतः।
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः॥ 12-267-28(75945)
ततस्तु काले राजेन्द्र बभूवुस्तेऽथ पक्षिणः।
बुबुधे तांस्तु स मुनिर्जातपक्षान्कुलिङ्गकान्॥ 12-267-29(75946)
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः।
बभूव परमप्रीतस्तदा मतिमतां वरः॥ 12-267-30(75947)
तथा तानभिसंवृद्धान्दृष्ट्वा चैवाप्तवान्मुदम्।
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह॥ 12-267-31(75948)
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान्।
सायंसायं द्विजान्विप्रो न चाकम्पत जाजलिः॥ 12-267-32(75949)
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम्।
त्यक्ता मातापितृभ्यां ते नचाकम्पत जाजलिः॥ 12-267-33(75950)
तथा ते दिवसं चापि गत्वा सायं पुनर्नृप।
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः॥ 12-267-34(75951)
कदाचिद्दिवसान्पञ्च समुत्पत्य विहगमाः।
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः॥ 12-267-35(75952)
क्रमेण च पुनः सर्वे दिवसान्सुबहूनथ।
नोपावर्तन्त शकुना जातपक्षाश्च ते यदा॥ 12-267-36(75953)
कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः।
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः॥ 12-267-37(75954)
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः।
सिद्धोस्मीति मतिं चक्रे ततस्तं मान आविशत्॥ 12-267-38(75955)
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः।
संभावितात्मा संभाव्य भृशं प्रीतस्तदाऽभवत्॥ 12-267-39(75956)
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम्।
उदयन्तमथादित्यमभ्यागच्छन्महातपाः॥ 12-267-40(75957)
संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतांवरः।
आस्फोटयत्तथाऽऽकाशे धर्मः प्राप्तो मयेति वै॥ 12-267-41(75958)
अथान्तरिक्षे वागासीत्तां च शुश्राव जाजलिः।
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले॥ 12-267-42(75959)
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः।
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज॥ 12-267-43(75960)
सोमर्षवशमापन्नस्तुलाधारदिदृक्षया।
पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः॥ 12-267-44(75961)
कालेन महताऽगच्छत्स तु वाराणसीं पुरीम्।
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः॥ 12-267-45(75962)
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः।
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत्॥ 12-267-46(75963)
तुलाधार उवाच। 12-267-47x(6288)
आयानेवासि विदितो मम ब्रह्मन्न संशयः।
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम॥ 12-267-47(75964)
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत्।
न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन॥ 12-267-48(75965)
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः।
क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया॥ 12-267-49(75966)
जातपक्षा यदा ते च गता संचरितुं ततः।
मन्यमानस्ततो धर्मं चटकप्रभवं द्विज।
खे वाचां त्वमथाश्रौषीर्मां प्रति द्विजसत्तम॥ 12-267-50(75967)
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह।
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम॥ ॥ 12-267-51(75968)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः॥ 267॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-267-1 जांजलिना सहेति ड. थ. पाठः। तुलाधारवाक्यानि धर्मे प्रमाणत्वेनोदाहरन्तीत्यर्थः॥ 12-267-4 प्रेक्षमाणो महाजलमिति ध. पाठः॥ 12-267-5 जलध्ये महीं विप्रेक्ष्य तपोबलाद्दूरदर्शनादिसिद्धिं प्राप्येत्यर्थः॥ 12-267-6 वैहायसमाकाशमतं ग्रहनक्षत्रादि गच्छेत् अवगच्छेत्। मया सह गच्छेशः सोऽन्यः कोस्तति योज्यम्॥ 12-267-13 उपस्पशंनरतः स्रामाचमनरतः॥ 12-267-14 स्त्रिया वेदविद्यया॥ 12-267-18 अमलसंयुतः निष्पापः॥ 12-267-21 उपप्रैक्षतोपेक्षांचक्रे। न वारितवानित्यर्थः॥ 12-267-23 प्राजापत्येन गर्भाधानविधिना॥ 12-267-29 ते शकुन्तकाः पक्षिणः पक्षवन्तो बभूवुः॥ 12-267-30 पक्षीन्। आर्षो मत्वर्थीय इः॥ 12-267-32 द्विजान् शकुन्तान्॥ 12-267-38 प्रलीनेषु प्रडीनेषु। मानो गर्वः॥ 12-267-41 संभाव्य वर्धयित्वा। आस्फोटयद्वाहुशब्दमकरोत्॥ 12-267-46 भाण्डं मूलवणिग्धनं तेन जीवनं यस्य॥ 12-267-47 आयानागच्छन्। आगतेनासि विदित इति थ. पाठः॥ 12-267-48 सागरानूपं सागरसमीपस्थं सजलं प्रदेशम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|